
Hindi
History & religion
3 months for 9 kr. Then 99 kr. / month. Cancel anytime.
More than 1 million listeners
You’ll love Podimo and you’re not alone
Rated 4.7 in the App Store

About Rajat Jain 🚩 #Chanting and #Recitation of #Jain & #Hindu #Mantras and #Prayers
Chanting And Recitation Of Jain & Hindu Mantras And Prayers.
Surabhi Stotram सुरभि स्तोत्रम्
।। श्री सुरभि स्तोत्रम् ।। ✓ नमो देव्यै महादेव्यै सुरभ्यै च नमो नमः । गवां बीज स्वरूपायै नमस्ते जगदम्बिके ॥ १॥ नमो राधा प्रियायै च पद्मांशायै नमो नमः । नमः कृष्ण प्रियायै च गवां मात्रे नमो नमः ॥ २॥ कल्पवृक्ष स्वरूपायै सर्वेषां सततं परम् । श्रीदायै धनदायै च बुद्धिदायै नमो नमः ॥ ३॥ शुभदायै प्रसन्नायै गोप्रदायै नमो नमः । यशोदायै सौख्यदायै धर्मदायै नमो नमः ॥ ४॥ स्तोत्र स्मरण मात्रेण तुष्टा हृष्टा जगत्प्रसूः । आविर्बभूव तत्रैव ब्रह्मलोके सनातनी ॥ ५॥ महेन्द्राय वरं दत्त्वा वाञ्छितं सर्व दुर्लभम् । जगाम सा च गोलोकं ययुर्देवादयो गृहम् ॥ ६॥ बभूव विश्वं सहसा दुग्धपूर्णं च नारद । दुग्धाद्घृतं ततो यज्ञस्ततः प्रीतिः सुरस्य च ॥ ७॥ इदं स्तोत्रं महापुण्यं भक्तियुक्तश्च यः पठेत् । स गोमान् धनवांश्चैव कीर्तिवान् पुण्यवान् भवेत ॥ ८॥ सुस्नातः सर्व तीर्थेषु सर्व यज्ञेषु दीक्षितः । इह लोके सुखं भुक्त्वा यात्यन्ते कृष्ण मन्दिरम् ॥ ९॥ सुचिरं निवसेत्तत्र कुरुते कृष्ण सेवनम् । न पुनर्भवनं तस्य ब्रह्मपुत्रो भवे भवेत् ॥ १०॥ इति श्रीब्रह्मवैवर्त पुराणे प्रकृति खण्डे इन्द्रकृतं सुरभि स्तोत्रं सम्पूर्णम् ॥
Sarva Dev Krit Lakshmi Stotra सर्वदेव कृत लक्ष्मी स्तोत्र
🌹सर्वदेव कृत लक्ष्मी स्तोत्र 🌹 🌹क्षमस्व भगवत्यम्ब क्षमाशीले परात्परे। शुद्धसत्त्वस्वरूपे च कोपादिपरिवर्जिते ॥१॥ 🌹उपमे सर्वसाध्वीनां देवीनां देवपूजिते। त्वया विना जगत्सर्वं मृततुल्यं च निष्फलम् ॥ २॥ 🌹सर्वसम्पत्स्वरूपा त्वं सर्वेषां सर्वरूपिणी। रासेश्वर्यधिदेवी त्वं त्वत्कलाः सर्वयोषितः ॥३॥ 🌹कैलासे पार्वती त्वं च क्षीरोदे सिन्धुकन्यका। स्वर्गे च स्वर्गलक्ष्मीस्त्वं मर्त्यलक्ष्मीश्च भूतले ॥ ४॥ 🌹वैकुण्ठे च महालक्ष्मीर्देवदेवी सरस्वती। गङ्गा च तुलसी त्वं च सावित्री ब्रह्मलोकतः ॥५॥ 🌹कृष्णप्राणाधिदेवी त्वं गोलोके राधिका स्वयम्। रासे रासेश्वरी त्वं च वृन्दावनवने वने ॥६॥ 🌹कृष्णप्रिया त्वं भाण्डीरे चन्द्रा चन्दनकानने । विरजा चम्पकवने शतशृङ्गे च सुन्दरी ॥७॥ 🌹पद्मावती पद्मवने मालती मालतीवने। कुन्ददन्ती कुन्दवने सुशीला केतकीवने ॥८॥ 🌹कदम्बमाला त्वं देवी कदम्बकाननेऽपि च। राजलक्ष्मी राजगेहे गृहलक्ष्मीगृहे गृहे ॥९॥ 🌹इत्युक्त्वा देवताः सर्वे मुनयो मनवस्तथा। रुरुदुर्नम्रवदनाः शुष्ककण्ठोष्ठतालुकाः ॥१०॥ 🌹इति लक्ष्मीस्तवं पुण्यं सर्वदेवैः कृतं शुभम्। यः पठेत्प्रातरुत्थाय स वै सर्वं लभेद् ध्रुवम् ॥ ११॥ 🌹अभार्यो लभते भार्यां विनीतां च सुतां सतीम्। सुशीलां सुन्दरीं रम्यामतिसुप्रियवादिनीम्॥ १२॥ 🌹पुत्रपौत्रावतीं शुद्धां कुलजां कोमलां वराम्। अपुत्रो लभते पुत्रं वैष्णवं चिरजीवनम् ॥१३॥ 🌹परमैश्वर्ययुक्तं च विद्यावन्तं यशस्विनम्। भ्रष्टराज्यो लभेद्राज्यं भ्रष्टश्रीर्लभते श्रियम् ॥ १४॥ 🌹हतबन्धुर्लभेद्वन्धुं धनभ्रष्टो धनं लभेत् । कीर्तिहीनो लभेत्कीर्ति प्रतिष्ठां च लभेध्रुवम् ॥ १५॥ 🌹सर्वमङ्गलदं स्तोत्रं शोकसंतापनाशनम्। हर्षानन्दकरं शश्वद्धर्ममोक्षसुहृत्प्रदम् ॥१६॥
Hema Malini Stotram हेमा मालिनी स्तोत्रम्
।। हेमामालिनी स्तोत्रम् ।। ध्यानं- हेमवर्णां चतुर्बाहुं रत्नसिंहासनस्थिताम्। पद्महस्ता वराभीति करां दन्तोल्लासितविग्रहम्।। कौस्तुभाभरणोपेतां कीर्तिमालाविभूषिताम्। त्रैलोक्यजननीं वन्दे हेममालिन्यरूपिणीम्।। स्तोत्रं- हेमवर्णे हेममाले हेमरत्नविभूषिते। हेमसिंहासिनि त्वं वै हेमलक्ष्मि नमोऽस्तु ते।।१।। सुवर्णशृङ्गारमयीं कनकद्युति भूषिताम्। रत्नराजिविलसिनीं हेमलक्ष्मीं नमाम्यहम्।।२।। हेमजटा जटाजूटे हेमकुण्डलमण्डिता। हेमांगदे हेमनूपुरे हेमकेयूरमण्डिता।।३।। हेमसारस्वती संयुक्ता हेमविष्णुपरायणा। हेमपद्मासनारूढा हेमनादविनादिनी।।४।। हेमवर्षाय च या नित्यं हेमकुबेरवन्दिता। हेमसंकल्पसम्पन्ना हेमकान्तिसमुद्धिता।।५।। हेमवर्णां शुभां देवीं रत्नमाल्यविभूषिताम्। कमलासनसंस्थां च भजे हेममालिनीं हरिप्रयाम्।।६।। सुवर्णसिंहासनस्थां स्वर्णकेयूरमण्डिताम्। स्वर्णकान्तिं समुद्धोष्यं स्वर्णलक्ष्मीं नमाम्यहम्।।७।। हिरण्यवर्णां हरिणीं सुवर्णाभरणोज्ज्वलाम्। चतुर्भुजां महालक्ष्मीं जयन्तीं नम्रतां गतः।।८।। हेममाल्यविलासिनीं रत्नसारविभूषिताम्। वज्रकान्तिं प्रदायिन्यां नमामि तां सुरेश्वरीम्।।९।। काञ्चनाभरणां देवीं चन्द्रकोटिसमप्रभाम्। हिरण्मयीं श्रीं ह्रीं क्लीं लक्ष्मीं नमाम्यहं सदा।।१०।। सर्वरत्ननिवासिन्यै सुवर्णस्रग्धरायै च। कमलाक्ष्यै महाशक्त्यै लक्ष्म्यै सौम्यायै नमः।।११।। स्वर्णसिन्धुतटायां या वसन्ति सदा सुरा। सा लक्ष्मीः पद्मपुष्पस्था मां कुर्यात्सर्वसंपदा।।१२।। हेमद्वीपविहारिण्यै काञ्चनदुर्गवासिनीम्। कुलदेवीं जगन्मातर्मां पालय शुभप्रदे।।१३।। हेमपुष्पैः समर्च्यां तां रत्नदीपैः सुसन्तुष्टाम्। नानाफलप्रदां देवीं वन्दे हेममालिनीम्।।१४।। हिरण्यकश्यपद्वेषीं विष्णुप्रियां महेश्वरीम्। स्वर्णसंपत्प्रदां लक्ष्मीं नमामि भक्तवत्सलाम्।।१५।। काञ्चनस्रग्धरां देवीं रत्नसिंहासनस्थिताम्। वेदविद्यामयीं लक्ष्मीं नमामि सर्वसिद्धये।।१६।। स्वर्णकीर्तिं प्रयच्छन्तीं स्वर्णरूपधरां शुभाम्। स्वर्णलक्ष्मीं नमाम्यद्य सुवर्णेन समृद्धये।।१७।। रत्नमालां च या धत्ते स्वर्णमालां च शोभनाम्। सा लक्ष्मीर्मम सर्वार्थं साधयत्वप्रणम्यताम्।।१८।। श्रीशक्तिं रत्नगर्भां च सुवर्णगात्रिनीं शुभाम्। श्रीं ह्रीं बीजसमायुक्तां लक्ष्मीं वन्दे पुनः पुनः।।१९।। स्वर्णराशिं करस्थां तां रत्नकुंभैः समन्विताम्। ददातु मे हेमलक्ष्मीः सर्वकामफलप्रदाम्।।२०।। हेमलता समुत्पन्ना कमलात्सहिते प्रभो। त्वं मे लक्ष्मीः सदा तिष्ठ न गृहं मम शोभय।।२१।। काञ्चनप्रभया युक्ता चन्द्रमण्डलमध्यगा। सा लक्ष्मीर्मे गृहे नित्यं भासमानं कुरु प्रभो।।२२।। स्वर्णपर्वतसङ्काशां स्वर्णतोरणमण्डिताम्। स्वर्णकलशहस्तां तां वन्दे हेममयीं शुभाम्।।२३।। स्वर्णरेखा समुद्भूतां ब्रह्मविद्याप्रकाशिनीम्। लक्ष्मीं ब्रह्मस्वरूपां तां नमामि सिद्धिदायिनीम्।।२४।। काञ्चनाङ्गीं वरांगीं च रत्नवेषविभूषिताम्। हेममालिनी लक्ष्मीं च सर्वशक्तिस्वरूपिणीम्।।२५।। श्रीं ह्रीं क्लीं हेममालिन्यै नमः कार्यसिद्धये। जप्यं स्तोत्रं मया प्रोक्तं लक्ष्मीप्रीत्यै सदा पठेत्।।२६।। ।। इति श्री हेमा-मालिनी स्तोत्रं संपूर्णम् ।।
Navgrah Stuti नवग्रह स्तुति
Navgrah Stuti नवग्रह स्तुति ॐ आदिदेव नमस्तुभ्यं सप्तसप्ते दिवाकरः ॥ आयुरारोग्यं मे देहि कुरू शांतिं शुभप्रदाम् ॥ रोहिणीश सुधामूर्ते सुधारूप सुधाशन ॥ सोम सौम्यो भवास्माकं सर्वारिष्टं निवारय ॥ कुज कुप्रभवोऽपि त्वं मंगलः परिगद्यसे ॥ अमङ्गलं निहत्याशु सर्वदा यक्ष मङ्गलम् ॥ बुध त्वं बुद्धिजननो बोधवान्सर्वदा नृणाम् ॥ तत्त्वावबोधं कुरूमे सोमपुत्र नमोऽस्तुते ॥ वेदशास्त्रार्थतत्त्वज्ञ ज्ञानविज्ञानपारग ॥ विबुधार्तीहरो नित्यं देवाचार्य नमोस्तुते ॥ भार्गवो भर्गजननः शुचिः श्रुतिविशारद ॥ हत्वा ग्रहकृतान्दोषानारोग्यं देहि में सदा ॥ कोणनीलाञ्जनप्रख्यं मन्दचेष्टाप्रसारिणम् छायामार्तण्डसंभूतं तं नमामि शनैश्चरम् ॥ महाशिरा महावक्रो दीर्घदंष्ट्रो महाबलः ॥ मुण्डकायोर्ध्वकेशी च पीड़ां हरतु मे तमः ॥ अधः स्थार्धाङ्ग भोः केतो पत्रधूमसमप्रभ ॥ रौद्ररुप नमस्तुभ्यं मम पीड़ां निराकुरू ॥ इतिग्रहस्तुति
Asit Kritam Shiva Stotram असित कृतं शिव स्तोत्रम्
Asit Kritam Shiva Stotram असित कृतं शिव स्तोत्रम् जगद्गुरो नम्स्तुभ्यं शिवाय शिवदाय च । योगीन्द्राणां च योगीन्द्र गुरूणां गुरवे नमः ॥१॥ मृत्योर्मृत्युस्वरूपेण मृत्युसंसारखण्डन । मृत्योरीश मृत्युबीज मृत्युञ्जय नमोऽस्तु ते ॥२॥ कालरूपं कलयतां कालकालेश कारण । कालादतीत कालस्थ कालकाल नमोऽस्तु ते ॥३॥ गुणातीत गुणाधार गुणबीज गुणात्मक । गुणीश गुणिनां बीज गुणिनां गुरवे नमः ॥४॥ ब्रह्मस्वरूप ब्रह्मज्ञ ब्रह्मभावे च तत्पर । ब्रह्मबीज स्वरूपेण ब्रह्मबीज नमोऽस्तु ते ॥५॥ इति स्तुत्वा शिवं नत्वा पुरस्तस्थौ मुनीश्वरः । दीनवत्साश्रुनेत्रश्च पुळकाञ्चितविग्रहः ॥६॥ असितेन कृतं स्तोत्रं भक्तियुक्तश्च यः पठेत् । वर्षमेकं हविष्याशी शङ्करस्य महात्मनः ॥७॥ स लभेद्वैष्णवं पुत्रं ज्ञानिनं चिरजीविनम् । दरिद्रो भवेद्धनाढ्यो मूको भवति पण्डितः ॥८॥ अभार्यो लभते भार्यां सुशीलां च पतिव्रताम् । इह लोके सुखं भुक्त्वा यात्यन्ते शिवसन्निधिम् ॥९॥ इदं स्तोत्रं पुरा दत्तं ब्रह्मणा च प्रचेतसे । प्रचेतसा स्वपुत्रायासिताय दत्तमुत्तमम् ॥१०॥ इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डेअसितकृतं शिवस्तोत्रं संपूर्णम् ॥
Choose your subscription
Limited Offer
Premium
20 hours of audiobooks
Podcasts only on Podimo
All free podcasts
Cancel anytime
3 months for 9 kr.
Then 99 kr. / month
Premium Plus
Unlimited audiobooks
Podcasts only on Podimo
All free podcasts
Cancel anytime
Start 7 days free trial
Then 129 kr. / month
3 months for 9 kr. Then 99 kr. / month. Cancel anytime.