
hindi
Historie & religion
99 kr / Måned etter prøveperioden.Avslutt når som helst.
Les mer Rajat Jain 🚩 #Chanting and #Recitation of #Jain & #Hindu #Mantras and #Prayers
Chanting And Recitation Of Jain & Hindu Mantras And Prayers.
Ganpati Stotraraj गणपति स्तोत्रराज
Ganpati Stotraraj गणपति स्तोत्रराज अजं निर्विकल्पं निराकारमेकं निरानन्दमद्वैतमानन्दपूर्णम् । परं निर्गुणं निर्विशेषं निरीहं परब्रह्मरूपं गणेशं भजेम ॥ १॥ गुणातीतमाद्यं चिदानन्दरूपं चिदाभासकं सर्वगं ज्ञानगम्यम् । मुनिध्येयमाकाशरूपं परेशं परब्रह्मरूपं गणेशं भजेम ॥ २॥ जगत्कारणं कारणाज्ञानरूपं सुरादिं सुखादिं युगादिं गणेशम् । जगद्वापिनं विश्ववन्द्यं सुरेशं परब्रह्मरूपं गणेशं भजेम ॥ ३॥ रजोयोगततो ब्रह्मरूपं श्रुतिज्ञं सदा कार्यसक्तं हृदाऽचिन्त्यरूपम् । सर्वविद्यानिधानं जगत्कारकं परब्रह्मरूपं गणेशं नताः स्मः ॥ ४॥ सदा सत्त्वयोगं मुदा क्रीडमानं सुरारीन् हरन्तं जगत्पालयन्तम् । अनेकावतारं निजाज्ञानहारं सदा विष्णुरूपं गणेशं नमामः ॥ ५॥ तमोयोगिनं रुद्ररूप त्रिनेत्रं जगद्धारकं तारकं ज्ञानहेतुम् । अनेकागमैः स्वं जनं बोधयन्तं सदा शर्वरूपं गणेशं नमामः ॥ ६॥ तमःस्तोमहारं जनाज्ञानहारं त्रयीवेदसारं परब्रह्मपारम् । मुनिज्ञानकारं विदूरे विकारं सदा ब्रह्मरूपं गणेशं नमामः ॥ ७॥ निजैरौषधीस्तर्पयन्तं करोधैः सुरौघान्कलाभिः सुधास्राविणीभिः | दिनेशांशु सन्तापहारं द्विजेशं शशाङ्कस्वरूपं गणेशं नमामः ॥ ८॥ प्रकाशस्वरूपं नभोवायुरूपं विकारादिहेतुं कलाकालभूतम् । अनेकक्रियानेक शक्तिस्वरूपं सदा शक्तिरूपं गणेशं नमामः ॥ ९॥ प्रधानस्वरूपं महतत्वरूपं धरावारिरूपं दिगीशादिरूपम् । असत्सत्स्वरूपं जगद्धेतुभूपं सदा विश्वरूपं गणेशं नमामः ॥ १०॥ त्वदीये मनः स्थापयेदङ्गियुग्मे जनो विघ्नसङ्खान्न पीडां लभेत । लसत्सूर्यविम्बे विशाले स्थितेऽयं जनो ध्वान्त पीडां कथं वा लभेत ॥ ११॥ वयं भ्रामिताः सर्वथाऽज्ञानयोगा दलब्ध्वा तवाङ्किम बहून्वर्षपूगान् । इदानीमवाप्तास्तवैव प्रसादात् प्रपन्नान सदा पाहि विश्वम्भराद्य ॥ १२॥ एवं स्तुतो गणेशस्तु सन्तुष्ठोऽभून्महामुने । कृपया परयोपेतोऽभिधातुं तान् प्रचक्रमे ॥ १३ ॥
Shri Yugalashtakam श्री युगलाष्टकम्
// श्री युगल अष्टकम् // कृष्णप्रेममयी राधा, राधाप्रेममयो हरिः। जीवने निधने नित्यं, राधाकृष्णौ गतिर्मम ।।०१ कृष्णस्य द्रविणं राधा, राधाया द्रविणं हरिः। जीवने निधने नित्यं, राधाकृष्णौ गतिर्मम ।।०२ कृष्णप्राणमयी राधा, राधाप्राणमयो हरिः। जीवने निधने नित्यं, राधाकृष्णौ गतिर्मम ।।०३ कृष्ण द्रवमयी राधा, राधा द्रवमयो हरिः। जीवने निधने नित्यं, राधाकृष्णौ गतिर्मम ।।०४ कृष्ण गृहस्थिता राधा, राधा गृहस्थितो हरिः। जीवने निधने नित्यं राधाकृष्णौ गतिर्मम ।।०५ कृष्ण चित्तस्थिता राधा, राधा चित्तस्थितो हरिः। जीवने निधने नित्यं राधाकृष्णौ गतिर्मम ।।०६ नीलाम्बराधारा राधा, पीताम्बर धरो हरिः। जीवने निधने नित्यं, राधाकृष्णौ गतिर्मम ।।०७ वृन्दावनेश्वरी राधा, कृष्णौ वृन्दावनेशवरः। जीवने निधने नित्यं, राधाकृष्णौ गतिर्मम ।।०८ -०-०-०-०-०-०-०-
Mrit Sanjivani Shukra Vidya मृतसंजीवनी शुक्र विद्या
मृतसंजीवनीमन्त्र शुक्रविद्या!! ✓ विनियोग:- ॐ अस्य श्रीमृतसंजीवनी महामन्त्रस्य ॐ सदाशिव ऋषिः । ॐ गायत्रीच्छंदः । ॐ पराशक्तिर्देवता। ॐ हं बीजं। ॐ सौं शक्तिः । ॐ हं कीलकं । ॐ श्रीं पराशक्ति प्रीत्यर्थं सर्वमंत्र संजीवनार्थं शीघ्रं उपनामं प्रसिद्धयर्थं जपे विनियोगः। ॥ ध्यानम्॥ ॐ नमो भगवति मंत्रमातृके अक्षमालिके सर्वदा स्फुरसि सर्वहृदि वससि नमस्ते परारूपे । नमस्ते पश्यंती रूपे। नमस्ते मध्यमारूपे । नमस्ते वैखरी रूपे । सर्व तत्वात्मिके । सर्व विद्यात्मिके । सर्व शक्तयात्मिके । सर्व मन्त्र शाप विमोचनि। सर्वं मंत्र संजीवनि । सर्व देवतात्मिके भगवति मंत्रमातृके अक्षमालिके नमस्ते नमस्ते नमस्ते । इतिध्यात्वा । मन्त्रो यथा - ॐ ह्रीं श्रीं ॐ भूर्भुवः स्वः ॐ अं आं इं ईं ह्रीं हैं ह्रीं जूं सः सर्वमंत्रान् संजीवय- संजीवय स्वाहा । ॐ ह्रीं जूं सः ॐ भूर्भुवः स्वः ॐ उं ऊं ऋ ॠ सर्वमंत्र यंत्राणां संजीवनं कुरु कुरु स्वाहा । ॐ भूर्भुवः स्वः ॐ लूं लूं ॐ ह्रीं हंसः सोहं रं रं रं सर्व मंत्रान् संजीवय संजीवय कुरु कुरु स्वाहा । ॐ भूर्भुवः स्वः ॐ एं ऐं ॐ ह्रीं रं रं रं सर्वमंत्राक्षराणां उत्कीलय उत्कीलय स्वाहा । ॐ भूर्भुवः स्वः ॐ ओं औं अं अः ॐ ह्रीं ॐ ह्रीं ह्रीं सर्व मंत्र यंत्र तंत्रादीनां संजीवय संजीवय रं रं रं ठः ठः ठः सर्व मंत्र संजीवन कुरु कुरु स्वाहा । ॐ त्वमाद्यानंत शक्ति स्तवं प्रवाहो जायते त्वया । सास्मृता पूजिता ध्याता योगिनामपि सिद्धिदा ॥ ॐ त्वया बद्धा सर्व देवा भ्रमंति निज कर्मणा। सा तुष्टा सर्व मंत्राणां अमृता सिद्धि दायिनि ॥ ॐ मंत्र संजीवनी विद्या वसिष्ठेन च साश्रिता। सिद्धिदा सर्व मंत्राणां सदाशिव प्रसादतः ॥ जपादौ बा पाठादौ वा जपान्ते वा पाठान्ते । सप्तवारं पठित्वा तु शीघ्रं सिद्धिं लभेन्नरः॥ ॥ इति मृतसंजीवनी शुक्र विद्या ॥
Surabhi Stotram सुरभि स्तोत्रम्
।। श्री सुरभि स्तोत्रम् ।। ✓ नमो देव्यै महादेव्यै सुरभ्यै च नमो नमः । गवां बीज स्वरूपायै नमस्ते जगदम्बिके ॥ १॥ नमो राधा प्रियायै च पद्मांशायै नमो नमः । नमः कृष्ण प्रियायै च गवां मात्रे नमो नमः ॥ २॥ कल्पवृक्ष स्वरूपायै सर्वेषां सततं परम् । श्रीदायै धनदायै च बुद्धिदायै नमो नमः ॥ ३॥ शुभदायै प्रसन्नायै गोप्रदायै नमो नमः । यशोदायै सौख्यदायै धर्मदायै नमो नमः ॥ ४॥ स्तोत्र स्मरण मात्रेण तुष्टा हृष्टा जगत्प्रसूः । आविर्बभूव तत्रैव ब्रह्मलोके सनातनी ॥ ५॥ महेन्द्राय वरं दत्त्वा वाञ्छितं सर्व दुर्लभम् । जगाम सा च गोलोकं ययुर्देवादयो गृहम् ॥ ६॥ बभूव विश्वं सहसा दुग्धपूर्णं च नारद । दुग्धाद्घृतं ततो यज्ञस्ततः प्रीतिः सुरस्य च ॥ ७॥ इदं स्तोत्रं महापुण्यं भक्तियुक्तश्च यः पठेत् । स गोमान् धनवांश्चैव कीर्तिवान् पुण्यवान् भवेत ॥ ८॥ सुस्नातः सर्व तीर्थेषु सर्व यज्ञेषु दीक्षितः । इह लोके सुखं भुक्त्वा यात्यन्ते कृष्ण मन्दिरम् ॥ ९॥ सुचिरं निवसेत्तत्र कुरुते कृष्ण सेवनम् । न पुनर्भवनं तस्य ब्रह्मपुत्रो भवे भवेत् ॥ १०॥ इति श्रीब्रह्मवैवर्त पुराणे प्रकृति खण्डे इन्द्रकृतं सुरभि स्तोत्रं सम्पूर्णम् ॥
Sarva Dev Krit Lakshmi Stotra सर्वदेव कृत लक्ष्मी स्तोत्र
🌹सर्वदेव कृत लक्ष्मी स्तोत्र 🌹 🌹क्षमस्व भगवत्यम्ब क्षमाशीले परात्परे। शुद्धसत्त्वस्वरूपे च कोपादिपरिवर्जिते ॥१॥ 🌹उपमे सर्वसाध्वीनां देवीनां देवपूजिते। त्वया विना जगत्सर्वं मृततुल्यं च निष्फलम् ॥ २॥ 🌹सर्वसम्पत्स्वरूपा त्वं सर्वेषां सर्वरूपिणी। रासेश्वर्यधिदेवी त्वं त्वत्कलाः सर्वयोषितः ॥३॥ 🌹कैलासे पार्वती त्वं च क्षीरोदे सिन्धुकन्यका। स्वर्गे च स्वर्गलक्ष्मीस्त्वं मर्त्यलक्ष्मीश्च भूतले ॥ ४॥ 🌹वैकुण्ठे च महालक्ष्मीर्देवदेवी सरस्वती। गङ्गा च तुलसी त्वं च सावित्री ब्रह्मलोकतः ॥५॥ 🌹कृष्णप्राणाधिदेवी त्वं गोलोके राधिका स्वयम्। रासे रासेश्वरी त्वं च वृन्दावनवने वने ॥६॥ 🌹कृष्णप्रिया त्वं भाण्डीरे चन्द्रा चन्दनकानने । विरजा चम्पकवने शतशृङ्गे च सुन्दरी ॥७॥ 🌹पद्मावती पद्मवने मालती मालतीवने। कुन्ददन्ती कुन्दवने सुशीला केतकीवने ॥८॥ 🌹कदम्बमाला त्वं देवी कदम्बकाननेऽपि च। राजलक्ष्मी राजगेहे गृहलक्ष्मीगृहे गृहे ॥९॥ 🌹इत्युक्त्वा देवताः सर्वे मुनयो मनवस्तथा। रुरुदुर्नम्रवदनाः शुष्ककण्ठोष्ठतालुकाः ॥१०॥ 🌹इति लक्ष्मीस्तवं पुण्यं सर्वदेवैः कृतं शुभम्। यः पठेत्प्रातरुत्थाय स वै सर्वं लभेद् ध्रुवम् ॥ ११॥ 🌹अभार्यो लभते भार्यां विनीतां च सुतां सतीम्। सुशीलां सुन्दरीं रम्यामतिसुप्रियवादिनीम्॥ १२॥ 🌹पुत्रपौत्रावतीं शुद्धां कुलजां कोमलां वराम्। अपुत्रो लभते पुत्रं वैष्णवं चिरजीवनम् ॥१३॥ 🌹परमैश्वर्ययुक्तं च विद्यावन्तं यशस्विनम्। भ्रष्टराज्यो लभेद्राज्यं भ्रष्टश्रीर्लभते श्रियम् ॥ १४॥ 🌹हतबन्धुर्लभेद्वन्धुं धनभ्रष्टो धनं लभेत् । कीर्तिहीनो लभेत्कीर्ति प्रतिष्ठां च लभेध्रुवम् ॥ १५॥ 🌹सर्वमङ्गलदं स्तोत्रं शोकसंतापनाशनम्। हर्षानन्दकरं शश्वद्धर्ममोक्षसुहृत्प्रदम् ॥१६॥
Velg abonnementet ditt
Premium
20 timer lydbøker
Eksklusive podkaster
Gratis podkaster
Avslutt når som helst
Prøv gratis i 60 dager
Deretter 99 kr / måned
Premium Plus
100 timer lydbøker
Eksklusive podkaster
Gratis podkaster
Avslutt når som helst
Prøv gratis i 60 dager
Deretter 169 kr / måned
Prøv gratis i 60 dager. 99 kr / Måned etter prøveperioden. Avslutt når som helst.